
Is this your show? Claim this page
PodCred
The people behind this show
People get invited back because someone remembered they were great.
PodCred is the verified record of who made this show. A credit here means people who were there confirmed the work.
Hosts
Who is on this show?
Think of the guest you still think about. The producer who makes the host sound smart. The editor who saves every episode. If a name is missing here, that person is invisible everywhere.
Add a creditEpisodes
750 episodesपापस्य कर्ता
कश्चन चतुरः वाक्पटुः सर्वशास्त्रज्ञः विप्रः आसीत् । कदाचित् क्षीरदोहनसमये धेनुः तं प्रहृतवती । तदा कुपितः विप्रः तां दण्डेन ताडितवान् । तस्य प्रहारं सोढुम् असहमाना सा धेनुः मृता अभवत् । गोहत्यापापं तस्य अनुसरणम् अकरोत्...
अहङ्कारः पराजयाय
कदाचित् वायोः अहङ्कारः समुत्पन्नः 'मम कारणेन जनाः कम्पन्ते, अतः अहमेव बलवान्' इति । 'सूर्यस्य अपेक्षया अपि अहमेव बलवान्' इत्यपि विचारः तस्य मनसि उत्पन्नः । अतः उभयोः शक्तेः परीक्षा भवतु इति वायुः सूर्यम् अवदत् । तौ उभौ...
अपवित्रः हस्तः
आनन्दपुरसाहिबमन्दिरे कदाचित् श्रीगुरुनानकदेवस्य प्रवचनं प्रचलति स्म । प्रवचनमध्ये गुरुनानकदेवः 'जलम् आवश्यकम्' इति उच्चारितवान् । अग्रे उपविष्टः कश्चन युवकः त्वरया उत्थाय अन्यत्र गत्वा जलपूर्णं चषकम् आनीय तस्मै दातुम्...
शुकस्य चातुर्यम्
कदाचित् अरण्यं गतवता केनचन व्याधेन कश्चन शुकः गृहीतः । सः तं गृहम् आनीय पञ्जरबद्धं कृतवान् । पुनः अरण्यगमनसमये अयं शुकः मित्रेभ्यः कञ्चन सन्देशं प्रापयितुं व्याधं निवेदयति । व्याधः अरण्यं गत्वा शुकसमूहस्य समीपं गत्वा...
चतुरः मेषपालः
कदाचित् धनिकः माधवः मेलं गत्वा तिस्रः उत्तमाः अजाः आनीतवान् । प्रतिदिनं दुग्धं यच्छन्ति स्म ताः अजाः । गच्छता कालेन दुग्धदानं स्थगितवत्यः । तदा ताभ्यः आहारदानं वृथा इति अचिन्तयत् सः । सः परेद्यवि ग्रामे उद्घोषयन् 'कोऽपि...
रङ्कं करोति राजानम्.....
अकबरचक्रवर्ती कदाचित् बीरबलं प्रशनत्रयस्य उत्तरं ददातु इति अवदत् 'ईश्वरः कुत्र अस्ति? कीदृशः अस्ति? किं च करोति?' इति । सप्ताहानन्तरम् उत्तरं वदिष्यामि इति बीरबलः अवदत् । षड् दिनानाम् अनन्तरमपि बीरबलेन उत्तराणि न...
गीतामाहात्म्यम्
कृष्णदत्तः कश्चन धनिकः । तस्य बहुषु सेवकेषु अन्यतमः आसीत् गोविन्दः यः सर्वदा स्वदारिद्र्यं निन्दति स्म । कृष्णदत्तः स्वस्य जन्मदिनस्य निमित्तं सर्वेभ्यः सेवकेभ्यः उपायनानि दत्तवान् । सन्तुष्टः गोविन्दः उपायनम्...
चत्वारः रक्षकाः
श्रीनिधिनामकः कश्चन रत्नवणिक् कदाचित् गृहं प्रत्यागच्छन् आसीत् । कुत्रचित् निर्जने प्रदेशे कश्चन आयुधसहितः चोरः आगतः । भयग्रस्तः श्रीनिधिः प्राणरक्षणार्थं स्वस्यूतं दातुम् उद्युक्तः । तावता चोरः अवदत् 'भवतः समीपे ये...
ताना - रीरी
अकबरचक्रवर्तिनः आस्थाने तोडरमल्लः, बीरबलः, तानसेनः इत्यादयः विद्वांसः आसन् । तानसेनः अद्वितीयः गायकः । कदाचित् तानसेनः 'ताना-रीरी इत्यनयोः बालिकयोः नाम शाश्वतं यथा स्यात् तथा करिष्यामि । इतः परं प्रत्येकं रागस्य...
फलम् अविनयस्य
यादृशं कर्म तादृशं फलम् इति तु सत्यम् एव । कथायाम् अस्यां कश्चन दुष्टस्वभावः मांसलशरीरश्च मर्कटः वने अन्यान् दुर्बलान् जन्तून् पीडयति स्म । एकदा मर्कटेन पीडितः कश्चित् कुक्कुटः शृगालस्य समीपं साहाय्यार्थम् अगच्छत् । तदा...
रोगनिदानम्
यद्यपि महाराजः अभिनवसेनः समीचीनतया शासनं करोति स्म तथापि सः केषुचित् विषयेषु हठशीलः आसीत् । सः तिन्त्रिणीप्रियः आसीत् । अतः राज्ये यत्र यत्र निम्बवृक्षाः आसन् तान् सर्वान् कर्तयित्वा तेषां स्थाने तिन्त्रिणीवृक्षान्...
पितृमुक्तिः
पृथिवीसिंहः अतीव सज्जनः धर्मभीरुः कृषिकः आसीत् । कदाचित् तस्य पुत्री एकमासात् रुग्णा जायमाना आसीत् । तस्मिन् एव काले प्रतिदिनं कश्चन वृद्धः वृषभः स्वप्नम् आगत्य 'पुत्र !! अहं भवतः पिता । धवलपुरे क्षत्रियवंशजस्य...
चत्वारः प्रश्नाः
मणिपुरनगरे मणिवल्लभः शासनं करोति स्म । सः धार्मिकः नीतिमान् बुद्धिमान् च । परन्तु महान् गर्विष्ठः अपि । कदाचित् महाराजं द्रष्टुम् आगतः कश्चन कविः वदति यत् पार्वतीपुरे ग्रामे सर्वे अतीव आरोग्यशालिनः बुद्धिमन्तश्च इति ।...
अनिवारणीयं प्रारब्धम्
प्रारब्धम् ईश्वरेणापि निवारयितुं न शक्यते । आश्चर्यं ननु? इयं कथा तस्याः उदाहरणम् अस्ति । कदाचित् शनिदेवः भगवतः शङ्करस्य समीपं गत्वा अवदत् 'श्वः ब्राह्मे मुहूर्ते अहं भवन्तं पीडयितुं ग्रहरूपेण आगमिष्यामि' इति । 'तथैव...
आलस्यं हि....
सप्त भ्रातरः । सर्वेऽपि अलसाः । कदाचित् पायसं निर्मितवन्तः । अन्ते ज्ञातं यत् गृहे शर्करा नास्ति इति । इदानीं विपणिं गत्वा शर्करां कः अनयति इति विवादः । कश्चन एकम् उपायं असूचयत् ' सर्वे स्थालिकां पायसेन पूरयामः, मौनेन...
पीठं चलति
चाङ्गदेवः कश्चन योगी । अनेकाः सिद्धीः प्राप्तवान् आसीत् । जनाः तं बहुधा प्रशंसन्ति स्म । अतः तस्य मनसि अहङ्कारः उत्पन्नः । तस्मिन् एव काले सतः ज्ञानेश्वरस्य कीर्तिः सर्वत्र प्रसृता । भगवतः विठ्ठलस्य परमभक्तः ।...
उदारता
कदचित् मिथिलाधिपः कोशलराज्ये आक्रमणम् अकरोत् । युद्धे कोशलनृपः पराजितः जातः, पलायनम् च अकरोत् । तस्य ग्रहणार्थं सहस्रं सुवर्णमुद्राः दीयन्ते इति उद्घोषितवान् मिथिलाधिपः । कोशलनगरे सर्वे युवकाः युद्धेः स्वप्राणान्...
सर्वेषु अस्ति ईश्वरः
कदाचित् गुरुकुलस्थाः छात्राः भिक्षाटनार्थं यदा समीपस्थं नगरं गतवन्तः तदा कश्चन उन्मत्तः गजः दृष्टः तैः । सर्वे छात्राः जनाः च इतस्ततः धावितवन्तः । किन्तु तेषु एकः छात्रः ईश्वरः सर्वेषु प्राणिषु अस्ति इति यद् गुरुणा...
पाषाणस्य मूल्यम्
कस्मिंश्चित् गुरुकुले सर्वे शिष्याः ब्रह्मचर्यस्य पालनं कुर्वन्ति स्म । एकदा सुन्दरनामकः बालकः भिक्षाटनस्य अनन्तरं यदा गुरुकुलं प्रति प्रस्थितः तदा मार्गमध्ये एकं सुन्दरं नीलं च पाषाणम् अपश्यत् । द्रष्टुं कन्दुकमिव...
सः एव रक्षकः
शिवाजिः यद्यपि विनयशीलः, तथापि कदाचित् तस्य मनसि विचारः आगतः 'मया बहूनि प्रजाहितानि कार्याणि कृतानि । अतः प्रजाः सुखेन जीवन्ति । एवं च अहं प्रजापालने दक्षः अस्मि' इति । एवं चिन्तयतः तस्य मनसि अहङ्कारः उत्पन्नः ।...
पादुकमहिमा
कदाचित् बहिर्भागतः आगतः श्रीमन्नारायणः पादुके शयनेप्रकोष्ठे एव विसृज्य शेषशयने शयितवान् । यद्यपि पादुकयोः न कोऽपि दोषः, तथापि अशुचिपादुके दृष्ट्वा नारायणस्य किरीटः पादुके तर्जितवान् । शङ्खचक्रगदादयः अपि पादुके निन्दन्तः...
अभिशप्ता चातकी
चातकी मयूरी च वर्षाराज्ञ्याः पुत्र्यौ । रूपवत्यै गुणवत्यै च मयूर्यै चातकी असूयति स्म । तस्याः अमङ्गलम् अपि चिन्तयति स्म । कदाचित् चातकी मयूर्याः अहितं करोति । तद् ज्ञातवत्या मात्रा वर्षाराज्ञ्या चातकी शप्ता जाता ।...
गुरवे नमः
पुरा शिवानन्दः इति कश्चन गुरुः आसीत् । यद्यपि सः विद्वान्, तथापि 'सर्वे शिष्याः मयि महत् गौरवं प्रदर्शयेयुः' इति इच्छा आसीत् तस्य । कदाचित् वृक्षम् आरूढवान् कश्चन शिष्यः गुरुं दृष्ट्वा अपि नमस्कारं न कृतवान्, पतनशङ्कया...
सर्वदा वन्द्यः शिवः
कश्चन बालकः मात्रा सह प्रतिदिनं शिवालयं गच्छति स्म । कदाचित् सः बालकः एकाकी देवालयम् अगच्छत् । तत्र शिवलिङ्गस्य उपरि अक्षतान्नं खादन्तं मूषकम् अपश्यत् । सर्वशक्तः अपि शिवः कथं मूषकं न निवारयति इति खेदम् अनुभवन् सः बालकः...
अनुचिता स्पर्धा
परमात्मनः सृष्टौ जीविनां गुणाः स्वभावश्च भिन्नाः भवन्ति । परं तेन कारणेन जिविनां मध्ये कदाचित् अपि स्पर्धा न भवेत् । यतः सर्वेषामपि जीविनां सृष्टेः फलं जगत्कल्याणमेव । कथायाम् अस्याम् अपि काचित् अनुचिता स्पर्धा भवति ।...
सेवायाः महत्त्वम्
कस्यचन नृपस्य पुत्रः प्रतिदिनं कस्यचित् साधोः समीपं गत्वा तस्य सेवां करोति स्म । साधोः सहवासतः राजकुमारस्य मनसि वैराग्यभावः अपि उपन्नः । परन्तु अग्रे केनचित् कारणेन राजकुमारस्य मनः चञ्चलम् अभवत् । साधोः सेवनेन किं फलम्?...
अन्धेनैव नीयमानः....
कस्यचन ग्रामीणस्य कुम्भकारस्य समीपे बहवः गर्दभाः आसन् । तेषु एकः अन्धः आसीत् । सः अन्धगर्दभः प्रतिदिनम् अन्यैः गर्दभैः सह चरणार्थं ग्रामात् अरण्यं गत्वा सुरक्षितरूपेण प्रत्यागच्छति स्म । कदाचित् सः अरण्ये मार्गभ्रष्टः...
मौनम्
वयं सर्वे प्रसिद्धं संस्कृतमहाकविं भारविं जानीमः। तस्य प्रमुखं काव्यं ‘किरातार्जुनीयम्’ इति महाकाव्यम् अस्ति। बाल्यकालादेव महामेधावी सः । श्लोकादिरचना बाललीला इव तस्य । इयं कथा तस्य महतः प्रसिद्धस्य च कवेः भारवेः...
आत्मगुणविकासनम्
कथायाम् अस्यां कदाचित् सर्वेऽपि प्राणिनः अन्ये जीविवेशेषाश्च सृष्टिकर्तुः ब्रह्मणः समीपं गत्वा परगुणानां प्रशंसां कुर्वन्तः स्वविषये अतृप्तिं च प्राकटयन् । गर्दभः शृगालः भवितुम् इच्छति, काकः कोकिलः भवितुम् इच्छति,...
बृहस्पतेः चातुर्यम्
महाराजः नरसिंहः विद्वान् रसिकश्च आसीत् । प्रतिदिनं तस्य आस्थानं प्रति बहवः याचकाः आगत्य स्वकौशलप्रदर्शनं कृत्वा महाराजात् पारितोषिकं प्राप्नुवन्ति स्म । कदाचित् कश्चित् याचकः राजसभाम् आगतः । सः न पण्डितः, न वा कलाकोविदः...
किं न उदेति शृङ्गे?
परिश्रमशीलः कृषकः गणपतिः श्रद्धया कृषिं करोति स्म । तस्य गृहे वृषभाः, धेनवः, कुक्कुराः, पालितः मार्जारः च आसन् । तस्य पुत्रः जयन्तः कृषिविज्ञानविषये उच्चविद्याविभूषितः छात्रवृत्तिं सम्पाद्य अमेरिकादेशं गतवान् ।...
चतुरा वृद्धा
काचित् वृद्धा आसीत् यस्याः केऽपि बान्धवाः न आसन् । सा एकाकिनी वसति स्म । कदाचित् तस्याः दृष्टिशक्तिः क्षीणा अभवत् । अल्पेन एव काले सा किमपि द्रष्टुम् अशक्ता अभवत् । तां द्रष्टुम् आगतः चिकित्सकः दुष्टस्वभावकः आसीत् । सा...
जीवन्तु शत्रुगणाः
कदाचित् कश्चन छात्रः कक्ष्यायां निद्रां कुर्वन् आसीत् । शिक्षकः यद्यपि तत् न लक्षितवान् तथापि पार्श्वस्थः छात्रः उत्थाय 'एषः निद्रां कुर्वन् अस्ति' इति शिक्षकम् अवदत् । तदा कुपितः शिक्षकः निद्रां कुर्वन्तं छात्रम्...
वास्तविकी भक्तिः
संस्कृतभाषायाः सुप्रसिद्धः शास्त्रज्ञः, कविः अप्पय्यदीक्षितः महान् शिवभक्तः आसीत् । कदाचित् स्वस्य शिवभक्तिं परीक्षितुम् इष्टवान् । लोके प्रसिद्धम् अस्ति यत् मनुष्यः उन्मत्तावस्थायां किमपि निगूहितं न शक्नोति । सः...
गयः
भारतीयेषु 'गया' क्षेत्रं पुण्यक्षेत्रम् इति भावना अस्ति । अत्र च जनाः स्वपितृकार्यं कृत्वा कृतकृत्याः भवन्ति । किं भवन्तः जानन्ति तत् क्षेत्रं 'गयः' इति राक्षसस्य नाम्ना एव विख्यातं जातम् इति । सः दुष्टः राक्षसः सुराणां...
विद्या विनयेन शोभते
श्रोणिकनामकः राजा मगधदेशस्य राजगृहनामके नगरे शासनं करोति स्म । तस्य मन्त्री अभयकुलः अत्यतं चतुरः आसीत् । तस्य राजोद्याने कश्चित् सदाफलः महान् आम्रवृक्षः आसीत् । उद्यानात् अनतिदूरे कश्चन चाण्डालः वसति स्म । तस्य गर्भवती...
गोमातुः औदार्यम्
प्रलयकाले सर्वेषामपि चराचरजन्तूनां किमपि आश्रयस्थानम् अपेक्षितं भवति । अतः ते गोमातरं शरणम् अगछन् । भगवतः नारायणस्य पत्नी लक्ष्मीः अन्यं शरणं न गच्छामि इति नितरां गर्विता आसीत् । अन्ते सा कुतूहलेन द्रष्टुं गोलोकम्...
अतिलोभात् विनश्यति
पुरातनकाले सञ्जीवनामकः महाराजः पुत्रकामनया बहुकालपर्यन्तं ब्राह्मणान् सेवितवान् । सन्तुष्टाः ब्राह्मणाः नारदमहर्षिं राज्ञे पुत्रदानार्थं प्रार्थितवन्तः । नारदमहर्षिः तत् अङ्गीकृत्य राजानम् अपृच्छत् 'भवान् कीदृशं पुत्रम्...
आत्मानन्दः
रोहिदासनामा कश्चन चर्मकारः पादरक्षाणां निर्माणं कृत्वा ताः विक्रीय जीवनं करोति स्म । महान् हरिभक्तः सः पादरक्षानिर्माणसमयेऽपि हरिनाम जपित्वा सर्वदा आनन्देन तिष्ठति स्म । तस्य शिष्यः चिन्तयति स्म यत् 'एतेन ज्ञानिना...
परिणामे भयङ्करः
कश्चन कलारसिकः काव्यप्रियः च महाराजः आसीत् । कदाचित् मगधदेशात् काव्यं श्रावयितुम् अस्य महाराजस्य आस्थानम् आगतवान् । यद्यपि सः उत्तमः कविः तथापि तस्य एकः दुरभ्यासः आसीत् यत् सः काव्यश्रावणसमये पुनःपुनः करतलयोः कण्डूयनं...
केतक्याः पतनम्
केतकी कदाचित् ब्रह्मणा सह मिलित्वा शिवस्य अन्वेषणविषये असत्यवचनं कथयति । कुपितः शिवः तां शप्तवान् यत् 'इतः परं मम पूजायां तव उपयोगः न भविष्यति' इति । अतः एव तदाप्रभृति शिवस्य पूजार्थं केतकी न उपयुज्यते ।...
संयमात् एव शान्तिः
कदाचित् वारणास्याम् आयोजितायां सभायां नानाविधाः चर्चाः शास्त्रार्थसंवादाश्च प्राचलन् 'शान्तिः कस्मात् प्राप्यते' इत्यस्मिन् विषये । सप्त दिनानि यावत् सभा प्रवृत्ता । अन्ते राजपुरोहितः सर्वेषां मतानि परिशील्य 'ज्ञानेन एव...
अक्षुण्णः अधिकारः
महाराष्ट्रे गाडगेमहाराजनामा कश्चन महापुरुषः अनेकलक्षरूप्यकाणि अन्येभ्यः दानरूपेण स्वीकृत्य तानि दरिद्राणां कल्याणाय व्ययीकरोति स्म । जीर्णानि वस्त्राणि, एकं कम्बलम्, एकं मृत्तिकापात्रं च एतावदेव तस्य धनम् आसीत् ।...
गोसेवा
अनादिकालात् अपि भारते गौः पूज्यते स्म । तस्य सेवा रक्षणं च आद्यं कर्तव्यम् इति जनाः मन्यन्ते स्म । अत्रापि प्रजारक्षकः परमोदारः च महाराजः विक्रमादित्यः काञ्चन गावं रक्षति । कदाचित् सः एकाकी अश्वारोही सन् सन्ध्याकाले यदा...
अतिथिसत्कारस्य फलम्
भारतीयसंस्कृतौ अतिथिसत्कारस्य विशिष्टं महत्त्वम् अस्ति । 'अतिथिदेवो भव' इति वचनम् अस्मान् शिक्षयति यत् अतिथिः देवता इव पूजनीयः । अतिथिसत्कारेण उत्तमं फलम् अपि लभ्यते । तत् फलं कीदृशं भवति इत्यस्य उत्तमम् उदाहरणं भवितुम्...
यथा त्वं तथा अहम्
रत्नपुरनामके ग्रामे काचन वृद्धा वसति स्म । सा अतीव चतुरा बुद्धिमती च । तस्याः चत्वारः पुत्राः एका पुत्री च । पुत्री ज्येष्ठा, पुत्राः कनिष्ठाः च । पुत्र्याः विवाहः जातः । तस्याः पतिः स्वभावेन विनोदशीलः । सर्वदा...
कः मूर्खः ?
कश्चन वृद्धः नगरात् ग्रामं प्रति आगच्छन् आसीत् । सः सर्वदा चलन् एव गच्छति स्म । नगरात् ग्रामः दूरे आसीत् । यद्यपि वृद्धः मन्दमेव चलितवान् तथापि सः शीघ्रमेव श्रान्तः अभवत् । किञ्चित् दूरगमनानन्तरं सः परस्परं कलहमग्नौ...
आदर्शसहोद्योगिनः अन्वेषणम्
प्राचीनभारते नागार्जुननामकः कश्चन प्रसिद्धः आयुर्वेदशिक्षकः आसीत् । सः रसायनशास्त्रेऽपि निपुणः आसीत् । वार्धक्यकारणात् सः पूर्ववत् कार्यं कर्तुं न शक्नोति स्म । अतः सः एकस्य समर्थस्य साहाय्यकस्य नियोजनं चिन्तितवान् ।...
मुकुटधारी तु मोक्तुकामोSस्ति
कस्मिंश्चित् वने कश्चन शशः परिवारेण सह निवसति स्म । यद्यपि शशः तस्य पत्नी च बहिः गमनसमये 'बहिः नः गन्तव्यम्' इति स्व-अपत्यानि सूचयतः तथापि शिशवः वारं वारं बहिः गत्वा क्रीडन्ति स्म । कदाचित् कश्चन दयालुः गजः क्रीडतः...
सः पापीयान्
केचन जनाः दुःखदघटनाः शीघ्रमेव विस्मरन्ति । अन्ये तु ताः घटनाः चिरकालं यावत् स्वमनसि वहन्ति । ते क्रोधं द्वेषम् अपमानं दुःखं च न त्यजन्ति । तर्हि पापी कः? यः दुःखं ददाति सः अथवा यः तदेव दुःखं चिरकालं यावत् स्वमनसि धारयति...
Posts
No posts yet. Posts बालमोदिनी shares on PodSubs, and what it publishes on Substack, YouTube and its own site, will show here.

Subscribe
Be on the front line of the show
Everything बालमोदिनी sends its own people, first. Resources, announcements, behind the scenes, events, and giveaways, straight from the host. No account needed.
- The resources the host shares with subscribers
- Announcements before anyone else hears
- Behind the scenes from the team
- Events, invitations, and giveaways
- Only what the host sends, nothing else
Audio and video play straight from the show's own hosting. PodSubs stores and serves no media.

.jpg&w=64&q=75)
.jpg&w=384&q=75)













