Skip to content
PodSubs
ShowsPeopleGuestsJobsNewsEvents
More
BlogPodCred
Menu
ShowsPeopleGuestsJobsNewsEventsBlogPodCredNetworksSign in
Join nowSign in
  • Shows
  • People
  • Jobs
  • News
  • More
    • Guests
    • Events
    • Blog
    • PodCred
    • Networks
    Join nowSign in

बालमोदिनी

बालमोदिनी artwork

पितृमुक्तिः

Nov 10, 20265 minAudio

पृथिवीसिंहः अतीव सज्जनः धर्मभीरुः कृषिकः आसीत् । कदाचित् तस्य पुत्री एकमासात् रुग्णा जायमाना आसीत् । तस्मिन् एव काले प्रतिदिनं कश्चन वृद्धः वृषभः स्वप्नम् आगत्य 'पुत्र !! अहं भवतः पिता । धवलपुरे क्षत्रियवंशजस्य रणवीरसिंहस्य गृहे वृषभरूपेण जन्म प्राप्तवान् अस्मि । पूर्वजन्मनि रणवीरसिंहाय पञ्चसप्ततिः रूप्यकाणि दातव्यानि आसन् । यदि भवान् तानि तस्मै प्रत्यर्पयति तर्हि अहं मुक्तः भवामि' इति । पृथिवीसिंहः धवलपुरं गत्वा रणवीरसिंहाय ऋणं प्रत्यर्पयति । अनन्तरदिने सः जीर्णः वृषभः मुक्तिं प्राप्नोति । सर्वे रणवीरसिंहस्य पितृभक्तिं प्रशंसन्ति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Prithivi Singh was a virtuous, devout farmer. One month, his daughter fell ill. At that time, an old bull appeared in his dreams daily, saying: ‘Son, I am your father. In Dhavalapura, I was born as a bull in the house of the warrior Ranavira Singh. In my past life, I owed him seventy-five silver coins. If you repay him, I will be freed.’ Prithivi Singh went to Dhavalapura, repaid the debt, and the old bull attained liberation the next day. Everyone praised Ranavira Singh’s devotion to his father.

Audio and video play straight from the show's own hosting. PodSubs stores and serves no media.

Hosts and Guests

Nobody is credited on this episode yet.

Credit the people on this episode

Be the first to rate this episode

More episodes

All episodes
  1. पापस्य कर्ता

    Nov 21, 20265 minAudio

    कश्चन चतुरः वाक्पटुः सर्वशास्त्रज्ञः विप्रः आसीत् । कदाचित् क्षीरदोहनसमये धेनुः तं प्रहृतवती । तदा कुपितः विप्रः तां दण्डेन ताडितवान् । तस्य प्रहारं सोढुम् असहमाना सा धेनुः मृता अभवत् । गोहत्यापापं तस्य अनुसरणम् अकरोत्...

    Credit the people on this episode

  2. अहङ्कारः पराजयाय

    Nov 20, 20262 minAudio

    कदाचित् वायोः अहङ्कारः समुत्पन्नः 'मम कारणेन जनाः कम्पन्ते, अतः अहमेव बलवान्' इति । 'सूर्यस्य अपेक्षया अपि अहमेव बलवान्' इत्यपि विचारः तस्य मनसि उत्पन्नः । अतः उभयोः शक्तेः परीक्षा भवतु इति वायुः सूर्यम् अवदत् । तौ उभौ...

    Credit the people on this episode

  3. अपवित्रः हस्तः

    Nov 19, 20263 minAudio

    आनन्दपुरसाहिबमन्दिरे कदाचित् श्रीगुरुनानकदेवस्य प्रवचनं प्रचलति स्म । प्रवचनमध्ये गुरुनानकदेवः 'जलम् आवश्यकम्' इति उच्चारितवान् । अग्रे उपविष्टः कश्चन युवकः त्वरया उत्थाय अन्यत्र गत्वा जलपूर्णं चषकम् आनीय तस्मै दातुम्...

    Credit the people on this episode

  4. शुकस्य चातुर्यम्

    Nov 18, 20263 minAudio

    कदाचित् अरण्यं गतवता केनचन व्याधेन कश्चन शुकः गृहीतः । सः तं गृहम् आनीय पञ्जरबद्धं कृतवान् । पुनः अरण्यगमनसमये अयं शुकः मित्रेभ्यः कञ्चन सन्देशं प्रापयितुं व्याधं निवेदयति । व्याधः अरण्यं गत्वा शुकसमूहस्य समीपं गत्वा...

    Credit the people on this episode

  5. चतुरः मेषपालः

    Nov 17, 20265 minAudio

    कदाचित् धनिकः माधवः मेलं गत्वा तिस्रः उत्तमाः अजाः आनीतवान् । प्रतिदिनं दुग्धं यच्छन्ति स्म ताः अजाः । गच्छता कालेन दुग्धदानं स्थगितवत्यः । तदा ताभ्यः आहारदानं वृथा इति अचिन्तयत् सः । सः परेद्यवि ग्रामे उद्घोषयन् 'कोऽपि...

    Credit the people on this episode