बालमोदिनी

बालमोदिनी artwork

शुकस्य चातुर्यम्

3 minAudio

कदाचित् अरण्यं गतवता केनचन व्याधेन कश्चन शुकः गृहीतः । सः तं गृहम् आनीय पञ्जरबद्धं कृतवान् । पुनः अरण्यगमनसमये अयं शुकः मित्रेभ्यः कञ्चन सन्देशं प्रापयितुं व्याधं निवेदयति । व्याधः अरण्यं गत्वा शुकसमूहस्य समीपं गत्वा पञ्जरस्थस्य शुकस्य सन्देशं वदति । तदा कश्चन शुकः तद् श्रुत्वा मृतः जातः । खिन्नः व्याधः गृहम् आगत्य प्रवृत्तं सर्वं पञ्जरस्थं शुकं वदति । तदा हा हन्त!! इत्युक्त्वा अयमपि शुकः मृतः जातः । खेदम् अनुभवन् व्याधः शुकं पञ्जरात् बहिः निष्कासयति । तावता शुकः उड्डीय वदति यत् मम मित्रेण मोक्षोपायः सूचितः आसीत् इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) A hunter once caught a parrot in the forest and kept it caged. When he returned to the forest, the parrot asked him to deliver a message to its friends. The hunter conveyed it, and one parrot hearing it fell dead. Shocked, the hunter told the caged parrot what had happened. At once, the caged parrot too fell as if dead. Saddened, the hunter released it from the cage. Immediately, the parrot flew away, saying: ‘My friend had shown me the way to freedom.’

Audio and video play straight from the show's own hosting. PodSubs stores and serves no media.

Hosts and Guests

Nobody is credited on this episode yet.

Credit the people on this episode

Be the first to rate this episode

More episodes

All episodes
  1. पापस्य कर्ता

    5 minAudio

    कश्चन चतुरः वाक्पटुः सर्वशास्त्रज्ञः विप्रः आसीत् । कदाचित् क्षीरदोहनसमये धेनुः तं प्रहृतवती । तदा कुपितः विप्रः तां दण्डेन ताडितवान् । तस्य प्रहारं सोढुम् असहमाना सा धेनुः मृता अभवत् । गोहत्यापापं तस्य अनुसरणम् अकरोत्...

    Credit the people on this episode

  2. अहङ्कारः पराजयाय

    2 minAudio

    कदाचित् वायोः अहङ्कारः समुत्पन्नः 'मम कारणेन जनाः कम्पन्ते, अतः अहमेव बलवान्' इति । 'सूर्यस्य अपेक्षया अपि अहमेव बलवान्' इत्यपि विचारः तस्य मनसि उत्पन्नः । अतः उभयोः शक्तेः परीक्षा भवतु इति वायुः सूर्यम् अवदत् । तौ उभौ...

    Credit the people on this episode

  3. अपवित्रः हस्तः

    3 minAudio

    आनन्दपुरसाहिबमन्दिरे कदाचित् श्रीगुरुनानकदेवस्य प्रवचनं प्रचलति स्म । प्रवचनमध्ये गुरुनानकदेवः 'जलम् आवश्यकम्' इति उच्चारितवान् । अग्रे उपविष्टः कश्चन युवकः त्वरया उत्थाय अन्यत्र गत्वा जलपूर्णं चषकम् आनीय तस्मै दातुम्...

    Credit the people on this episode

  4. चतुरः मेषपालः

    5 minAudio

    कदाचित् धनिकः माधवः मेलं गत्वा तिस्रः उत्तमाः अजाः आनीतवान् । प्रतिदिनं दुग्धं यच्छन्ति स्म ताः अजाः । गच्छता कालेन दुग्धदानं स्थगितवत्यः । तदा ताभ्यः आहारदानं वृथा इति अचिन्तयत् सः । सः परेद्यवि ग्रामे उद्घोषयन् 'कोऽपि...

    Credit the people on this episode

  5. रङ्कं करोति राजानम्.....

    4 minAudio

    अकबरचक्रवर्ती कदाचित् बीरबलं प्रशनत्रयस्य उत्तरं ददातु इति अवदत् 'ईश्वरः कुत्र अस्ति? कीदृशः अस्ति? किं च करोति?' इति । सप्ताहानन्तरम् उत्तरं वदिष्यामि इति बीरबलः अवदत् । षड् दिनानाम् अनन्तरमपि बीरबलेन उत्तराणि न...

    Credit the people on this episode