
पापस्य कर्ता
कश्चन चतुरः वाक्पटुः सर्वशास्त्रज्ञः विप्रः आसीत् । कदाचित् क्षीरदोहनसमये धेनुः तं प्रहृतवती । तदा कुपितः विप्रः तां दण्डेन ताडितवान् । तस्य प्रहारं सोढुम् असहमाना सा धेनुः मृता अभवत् । गोहत्यापापं तस्य अनुसरणम् अकरोत् इति विचिन्त्य सः विप्रः एकम् उपायम् अचिन्तयत् । यतः हस्तस्य अभिमानी देवः इन्द्रः, हस्तेन कृतं पापं तु इन्द्रेण कृतं न तु मया इति विचिन्त्य सः पापम् अवदत् यत् भवान् इन्द्रं पीडयतु, न तु माम् इति । यदा इन्द्रेण एतत् ज्ञातं सः विप्राय पाठं पाठयितुं कञ्चन उपायं करोति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) A learned, eloquent Brahmin once, while milking a cow, struck it in anger when it hurt him. The cow died, and he feared the sin of cow‑slaughter. To escape, he reasoned: ‘Since Indra is the deity of the hand, the sin done by my hand belongs to Indra, not me.’ Thus he shifted the blame. When Indra learned of this, he devised a way to teach the Brahmin a lesson.
Audio and video play straight from the show's own hosting. PodSubs stores and serves no media.
