Skip to content
PodSubs
ShowsPeopleGuestsJobsNewsEvents
More
BlogPodCred
Menu
ShowsPeopleGuestsJobsNewsEventsBlogPodCredNetworksSign in
Join nowSign in
  • Shows
  • People
  • Jobs
  • News
  • More
    • Guests
    • Events
    • Blog
    • PodCred
    • Networks
    Join nowSign in

बालमोदिनी

बालमोदिनी artwork

अनुचिता स्पर्धा

Oct 28, 20264 minAudio

परमात्मनः सृष्टौ जीविनां गुणाः स्वभावश्च भिन्नाः भवन्ति । परं तेन कारणेन जिविनां मध्ये कदाचित् अपि स्पर्धा न भवेत् । यतः सर्वेषामपि जीविनां सृष्टेः फलं जगत्कल्याणमेव । कथायाम् अस्याम् अपि काचित् अनुचिता स्पर्धा भवति । नारिकेलवृक्षस्य अपेक्षया अहम् अधमा अस्मि इति आत्महीनभावना कूष्माण्डलतायाम् उत्पद्यते । नारिकेलवृक्षस्य इव उन्नतजीवनं कामयमाना सा कूष्माण्डलता रात्रौ भक्त्या ईश्वरं प्रार्थयत । अग्रिमदिने सा लता देवालयस्य गोपुरं सम्पूर्णं व्याप्य स्थिता । सा सन्तुष्टा जाता । किन्तु तस्याः सन्तोषः दीर्घकालं भवति वा न वा इति सम्पूर्णां कथां श्रुत्वा जानन्तु । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) In creation, the Supreme Being has given different qualities and natures to living beings. Yet, because the purpose of all creation is the welfare of the world, there should never be rivalry among them. In this story, however, an improper rivalry arises. A pumpkin creeper feels inferior to the coconut tree and longs for a lofty life like it. With devotion, she prays to God at night. The next day, the creeper spreads across the temple tower and feels satisfied. But whether her satisfaction lasts long or not is revealed only by hearing the full tale.

Audio and video play straight from the show's own hosting. PodSubs stores and serves no media.

Hosts and Guests

Nobody is credited on this episode yet.

Credit the people on this episode

Be the first to rate this episode

More episodes

All episodes
  1. पापस्य कर्ता

    Nov 21, 20265 minAudio

    कश्चन चतुरः वाक्पटुः सर्वशास्त्रज्ञः विप्रः आसीत् । कदाचित् क्षीरदोहनसमये धेनुः तं प्रहृतवती । तदा कुपितः विप्रः तां दण्डेन ताडितवान् । तस्य प्रहारं सोढुम् असहमाना सा धेनुः मृता अभवत् । गोहत्यापापं तस्य अनुसरणम् अकरोत्...

    Credit the people on this episode

  2. अहङ्कारः पराजयाय

    Nov 20, 20262 minAudio

    कदाचित् वायोः अहङ्कारः समुत्पन्नः 'मम कारणेन जनाः कम्पन्ते, अतः अहमेव बलवान्' इति । 'सूर्यस्य अपेक्षया अपि अहमेव बलवान्' इत्यपि विचारः तस्य मनसि उत्पन्नः । अतः उभयोः शक्तेः परीक्षा भवतु इति वायुः सूर्यम् अवदत् । तौ उभौ...

    Credit the people on this episode

  3. अपवित्रः हस्तः

    Nov 19, 20263 minAudio

    आनन्दपुरसाहिबमन्दिरे कदाचित् श्रीगुरुनानकदेवस्य प्रवचनं प्रचलति स्म । प्रवचनमध्ये गुरुनानकदेवः 'जलम् आवश्यकम्' इति उच्चारितवान् । अग्रे उपविष्टः कश्चन युवकः त्वरया उत्थाय अन्यत्र गत्वा जलपूर्णं चषकम् आनीय तस्मै दातुम्...

    Credit the people on this episode

  4. शुकस्य चातुर्यम्

    Nov 18, 20263 minAudio

    कदाचित् अरण्यं गतवता केनचन व्याधेन कश्चन शुकः गृहीतः । सः तं गृहम् आनीय पञ्जरबद्धं कृतवान् । पुनः अरण्यगमनसमये अयं शुकः मित्रेभ्यः कञ्चन सन्देशं प्रापयितुं व्याधं निवेदयति । व्याधः अरण्यं गत्वा शुकसमूहस्य समीपं गत्वा...

    Credit the people on this episode

  5. चतुरः मेषपालः

    Nov 17, 20265 minAudio

    कदाचित् धनिकः माधवः मेलं गत्वा तिस्रः उत्तमाः अजाः आनीतवान् । प्रतिदिनं दुग्धं यच्छन्ति स्म ताः अजाः । गच्छता कालेन दुग्धदानं स्थगितवत्यः । तदा ताभ्यः आहारदानं वृथा इति अचिन्तयत् सः । सः परेद्यवि ग्रामे उद्घोषयन् 'कोऽपि...

    Credit the people on this episode