
गीतामाहात्म्यम्
कृष्णदत्तः कश्चन धनिकः । तस्य बहुषु सेवकेषु अन्यतमः आसीत् गोविन्दः यः सर्वदा स्वदारिद्र्यं निन्दति स्म । कृष्णदत्तः स्वस्य जन्मदिनस्य निमित्तं सर्वेभ्यः सेवकेभ्यः उपायनानि दत्तवान् । सन्तुष्टः गोविन्दः उपायनम् उद्घाटितवान् किन्तु तत्र आसीत् भगवद्गीता पुस्तकम् । निराशः सः पुस्तकं पार्श्वे स्थापितवान् ।अनन्तरदिने कृष्णदत्तः गोविन्दम् अपृच्छत् 'भगवद्गीतां पठितवान् वा?’ इति । न इति उत्तरे प्राप्ते पुस्तकम् आनाय्य किञ्चित् वा पठतु इति गोविन्दम् अवदत् कृष्णदत्तः । यदा सः पुस्तकम् उद्घाटितवान् तदा प्रथमपृष्ठे एव रूप्यकाणां गुच्छमेकम् अपश्यत् । गीताम् अपठित्वा एवं माहात्म्यं स्यात् तर्हि सम्पूर्णतया गीता पठ्यते चेत् कीदृशः लाभः भवेत् इति यदा कृष्णदत्तः अवदत् तदा लज्जितः गोविन्दः जीवने आशावादस्य अपि महत्त्वं ज्ञातवान् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Krishnadatta was a wealthy man. Among his servants was Govinda, who often complained of his poverty. On Krishnadatta’s birthday, he gave gifts to all servants. Govinda opened his gift and found only a Bhagavad Gita, which disappointed him. Later, Krishnadatta asked if he had read it. When Govinda said no, Krishnadatta urged him to open it. On the very first page, Govinda found a bundle of silver coins. Krishnadatta remarked: ‘If such a benefit comes without reading, imagine the gain from reading it fully.’ Ashamed, Govinda realized the importance of hope and positivity in life.
Audio and video play straight from the show's own hosting. PodSubs stores and serves no media.
